"सौन्दर्य लहरी / पृष्ठ - ४ / आदि शंकराचार्य" के अवतरणों में अंतर
Sharda suman (चर्चा | योगदान) छो (Sharda suman ने सौन्दर्य लहरी / भाग - 4 / आदि शंकराचार्य पर पुनर्निर्देश छोड़े बिना उसे [[सौन्दर्य लहरी / पृ...) |
|||
पंक्ति 31: | पंक्ति 31: | ||
त्वमेव स्वात्मानं परिणमयितुं विश्ववपुषा । | त्वमेव स्वात्मानं परिणमयितुं विश्ववपुषा । | ||
चिदानन्दाकारं शिवयुवति भावेन बिभृषे ॥३५॥ | चिदानन्दाकारं शिवयुवति भावेन बिभृषे ॥३५॥ | ||
+ | |||
+ | तवाज्ञा चक्रस्थं तपनशशि कोटि द्युतिधरं । | ||
+ | परं शंभुं वन्दे परिमिलित पार्श्वं परचिता ॥ | ||
+ | यमाराध्यन् भक्त्या रविशशिशुचीनामविषये । | ||
+ | निरातंके लोको निवसतिहि भालोकभवने ॥ | ||
+ | |||
</poem> | </poem> |
19:04, 20 अप्रैल 2015 का अवतरण
चतुःषष्ट्या तन्त्रैः सकलमतिसन्धाय भुवनं
स्थितः तत्तत्सिद्धि प्रसव परतन्त्रैः पशुपतिः ।
पुनस्त्वन्निर्बन्धादखिल पुरुषार्थैक घटना-
स्वतन्त्रंते तंत्रं क्षितितल मवातीतरदिदम् ॥३१॥
शिवः शक्तिः कामः क्षिति रथ रविः शीतकिरण
स्मरो हंसः शक्र स्तदनु च परा मार हरयः ॥
अमी हृल्लेखा भिस्तिसृभिरवसानेषु घटिता ।
भजन्ते वर्णास्ते तव जननि नामावयवताम् ॥३२॥
स्मरं योनिं लक्ष्मीं त्रितयमिदमादौ तव मनो-
र्निधायैके नित्ये निरवधि महा भोग रसिकाः ॥
भजन्ति त्वां चिन्तामणि गुण निबद्धा क्षवलयाः ।
शिवाऽग्नौ जुह्वन्तः सुरभिघृतधाराऽऽहुतिशतैः॥३३॥
शरीरं त्वं शंभोः शशिमिहिरवक्षोरुह युगम् ।
तवात्मानं मन्ये भगवतिनवात्मान मनघं ॥
अतः शेषः शेषीत्ययमुभय साधारणतया ।
स्थितः संबन्धोवां समरस परानन्दपरयोः ॥३४॥
मनस्त्वं व्योमत्वं मरुदसि मरुत्सारथिरसि ।
त्वमापस्त्वं भूमिस्त्वयि परिणतायां न हि परम् ॥
त्वमेव स्वात्मानं परिणमयितुं विश्ववपुषा ।
चिदानन्दाकारं शिवयुवति भावेन बिभृषे ॥३५॥
तवाज्ञा चक्रस्थं तपनशशि कोटि द्युतिधरं ।
परं शंभुं वन्दे परिमिलित पार्श्वं परचिता ॥
यमाराध्यन् भक्त्या रविशशिशुचीनामविषये ।
निरातंके लोको निवसतिहि भालोकभवने ॥