"सौन्दर्य लहरी / पृष्ठ - 10 / आदि शंकराचार्य" के अवतरणों में अंतर
('{{KKGlobal}} {{KKRachna |रचनाकार=आदि शंकराचार्य |अनुवादक= |संग्रह=...' के साथ नया पृष्ठ बनाया) |
|||
पंक्ति 11: | पंक्ति 11: | ||
स्वविक्षेपे शिक्षां सुभगमणिमञ्जीर रणित - | स्वविक्षेपे शिक्षां सुभगमणिमञ्जीर रणित - | ||
च्छलादाचक्षाणं चरणकमलं चारुचरिते॥९१॥ | च्छलादाचक्षाणं चरणकमलं चारुचरिते॥९१॥ | ||
+ | |||
+ | गतास्ते मञ्चत्वं द्रुहिणहरि रुद्रेश्वरभृतः | ||
+ | शिवः स्वच्छच्छायाघटितकपटप्रच्छदपटः । | ||
+ | त्वदीयानां भासां प्रतिफलन रागारुणतया | ||
+ | शरीरी शृङ्गारो रस इव दृशां दोग्धि कुतुकम् ॥९२॥ | ||
+ | |||
+ | अराला केशेषु प्रकृतिसरला मन्दहसिते | ||
+ | शिरीषाभाचित्ते दृशदिव कठोरा कुचतटे । | ||
+ | भृशं तन्वी मध्ये पृथुरपि वरारोह विषये | ||
+ | जगत्त्रातुंशंभोर्जयतिकरुणा काचिदरुणा ॥ ९३ | ||
+ | |||
+ | समानीतः पद्भ्यां मणिमुकुरतामम्बरमणि - | ||
+ | र्भयादास्यादन्तःस्तिमितकिरणश्रेणिमसृणः । | ||
+ | दधाति त्वद्वक्त्रंप्रतिफलनमश्रान्तविकचं | ||
+ | निरातङ्कं चन्द्रान्निजहृदयपङ्के रुहमिव ॥९४॥ | ||
+ | |||
+ | कलंकः कस्तूरी रजनिकर बिम्बं जलमयं | ||
+ | कलाभिः कर्पूरैर्मरकतकरण्डं निबिडितम् । | ||
+ | अतस्त्वद्भोगेन प्रतिदिनमिदं रिक्तकुहरं | ||
+ | विधिर्भूयो भूयो निबिडयति नूनं तवकृते ॥९५॥ | ||
+ | |||
+ | पुरारातेरन्तः पुरमसि ततस्त्वच्चरणयोः | ||
+ | सपर्यामर्यादा तरल करणानामसुलभा । | ||
+ | तथा ह्येते नीताः शतमखमुखाः सिद्धिमतुलां | ||
+ | तव द्वारोपान्त स्थितिभिरणिमाऽऽद्याभिरमराः ॥९६॥ | ||
+ | |||
+ | कलत्रं वैधात्रं कतिकति भजन्ते न कवयः | ||
+ | श्रियो देव्याः को वा न भवति पतिः कैरपि धनैः । | ||
+ | महादेवं हित्वा तव सति सतीनामचरमे | ||
+ | कुचाभ्यामासङ्गः कुरवकतरोरप्यसुलभः ॥९७॥ | ||
+ | |||
+ | गिरामाहुर्देवीं द्रुहिणगृहिणीमागमविदो | ||
+ | हरेः पत्नीं पद्मां हरसहचरीमद्रितनयां । | ||
+ | तुरीया काऽपित्वं दुरधिगमनिःसीममहिमा | ||
+ | महामाया विश्वं भ्रमयसि परब्रह्ममहिषि ॥९८॥ | ||
+ | |||
+ | समुद्भूत स्थूलस्तन भरमुरश्चारु हसितं | ||
+ | कटाक्षे कन्दर्पाः कतिचन कदम्बद्युतिवपुः । | ||
+ | हरस्य त्वद्भ्रान्तिं मनसि जनयन्तिस्म विमला | ||
+ | भवत्या ये भक्ताः परिणतिरमीषामियमुमे ॥९९॥ | ||
+ | |||
+ | कदा काले मातः कथय कलितालक्तकरसं | ||
+ | पिबेयं विद्यार्थी तव चरणनिर्णेजन जलम् । | ||
+ | प्रकृत्या मूकानामपि च कविताकारणतया | ||
+ | यदाधत्तेवाणीमुखकमल ताम्बूलरसताम् ॥१००॥ | ||
+ | <poem> |
18:25, 8 जुलाई 2022 के समय का अवतरण
पदन्यासक्रीडा परिचयमिवारब्धु मनस-
श्चरन्तस्ते खेलं भवन कलहंसा न जहति ।
स्वविक्षेपे शिक्षां सुभगमणिमञ्जीर रणित -
च्छलादाचक्षाणं चरणकमलं चारुचरिते॥९१॥
गतास्ते मञ्चत्वं द्रुहिणहरि रुद्रेश्वरभृतः
शिवः स्वच्छच्छायाघटितकपटप्रच्छदपटः ।
त्वदीयानां भासां प्रतिफलन रागारुणतया
शरीरी शृङ्गारो रस इव दृशां दोग्धि कुतुकम् ॥९२॥
अराला केशेषु प्रकृतिसरला मन्दहसिते
शिरीषाभाचित्ते दृशदिव कठोरा कुचतटे ।
भृशं तन्वी मध्ये पृथुरपि वरारोह विषये
जगत्त्रातुंशंभोर्जयतिकरुणा काचिदरुणा ॥ ९३
समानीतः पद्भ्यां मणिमुकुरतामम्बरमणि -
र्भयादास्यादन्तःस्तिमितकिरणश्रेणिमसृणः ।
दधाति त्वद्वक्त्रंप्रतिफलनमश्रान्तविकचं
निरातङ्कं चन्द्रान्निजहृदयपङ्के रुहमिव ॥९४॥
कलंकः कस्तूरी रजनिकर बिम्बं जलमयं
कलाभिः कर्पूरैर्मरकतकरण्डं निबिडितम् ।
अतस्त्वद्भोगेन प्रतिदिनमिदं रिक्तकुहरं
विधिर्भूयो भूयो निबिडयति नूनं तवकृते ॥९५॥
पुरारातेरन्तः पुरमसि ततस्त्वच्चरणयोः
सपर्यामर्यादा तरल करणानामसुलभा ।
तथा ह्येते नीताः शतमखमुखाः सिद्धिमतुलां
तव द्वारोपान्त स्थितिभिरणिमाऽऽद्याभिरमराः ॥९६॥
कलत्रं वैधात्रं कतिकति भजन्ते न कवयः
श्रियो देव्याः को वा न भवति पतिः कैरपि धनैः ।
महादेवं हित्वा तव सति सतीनामचरमे
कुचाभ्यामासङ्गः कुरवकतरोरप्यसुलभः ॥९७॥
गिरामाहुर्देवीं द्रुहिणगृहिणीमागमविदो
हरेः पत्नीं पद्मां हरसहचरीमद्रितनयां ।
तुरीया काऽपित्वं दुरधिगमनिःसीममहिमा
महामाया विश्वं भ्रमयसि परब्रह्ममहिषि ॥९८॥
समुद्भूत स्थूलस्तन भरमुरश्चारु हसितं
कटाक्षे कन्दर्पाः कतिचन कदम्बद्युतिवपुः ।
हरस्य त्वद्भ्रान्तिं मनसि जनयन्तिस्म विमला
भवत्या ये भक्ताः परिणतिरमीषामियमुमे ॥९९॥
कदा काले मातः कथय कलितालक्तकरसं
पिबेयं विद्यार्थी तव चरणनिर्णेजन जलम् ।
प्रकृत्या मूकानामपि च कविताकारणतया
यदाधत्तेवाणीमुखकमल ताम्बूलरसताम् ॥१००॥