"रघुवंशम् / सप्तदशः सर्गः / कालिदास" के अवतरणों में अंतर
Sharda suman (चर्चा | योगदान) ('{{KKGlobal}} {{KKRachna |रचनाकार=कालीदास |अनुवादक= |संग्रह=रघुवंशम...' के साथ नया पन्ना बनाया) |
Sharda suman (चर्चा | योगदान) |
||
पंक्ति 1: | पंक्ति 1: | ||
{{KKGlobal}} | {{KKGlobal}} | ||
{{KKRachna | {{KKRachna | ||
− | |रचनाकार= | + | |रचनाकार=कालिदास |
|अनुवादक= | |अनुवादक= | ||
− | |संग्रह=रघुवंशम् / | + | |संग्रह=रघुवंशम् / कालिदास |
}} | }} | ||
{{KKCatSanskritRachna}} | {{KKCatSanskritRachna}} |
16:12, 1 जुलाई 2014 का अवतरण
ऐथिं नाम काकुत्स्थात्पुत्रं आपकुमुद्वती।
पश्चिमाद्यामिनीयामात्प्रसादं इव चेतना॥१७.१॥
स पितुः पितृमान्वंशं पुत्रं आपकुमुद्वती।
अपुनात्सवितेवोभौ मार्गावुत्तरदक्षिणौ॥१७.२॥
तं आदौ कुलविद्यानां अर्थं अर्थविदां वरः।
पश्चात्पार्थिवकन्यानां पाणिं अग्राहयत्पिता॥१७.३॥
जात्यस्तेनाभिजातेन शूरः शौर्यवता कुशः।
अमन्यतैकं आत्मानं अनेकं वशिना वशी॥१७.४॥
स कुलोचितं इन्द्रस्य साहायकं उपेयिवान्।
जघान समरे दैत्यं दुर्जयं तेन सोऽवधि॥१७.५॥
तं स्वसा नागराजस्य कुमुदस्य कुमुद्वती।
अन्वगात्कुमुदानन्दं शशाङ्कं इव क्ॐउदी॥१७.६॥
तयोर्दिवस्पतेरासीदेकः सिंहासनार्धबाक्।
द्वितीयापि सखी शच्याः पारिजातांशभागिनी॥१७.७॥
तदात्मसंभवं राज्ये मन्त्रिवृद्दाः समादधुः।
स्मरन्तः पश्चिमां आज्ञां भर्तुः संग्रामयायिनः॥१७.८॥
ते तस्य कल्पयां आसुरभिषेकाय शिल्पिभिः।
विमानं नवं उद्वेदि चतुःस्तम्भप्रतिष्टं॥१७.९॥
तत्रैनं हेमकुम्भेषु संभृतैस्तीर्थवारिभिः।
उपतस्थुः प्रकृतयो भद्रपीठोपवेशितं॥१७.१०॥
नदध्बिः स्निग्धगम्भीरं तूर्यैराहतपुष्करैः।
अन्वमीयत कल्याणं तस्याविच्छिन्नसंतति॥१७.११॥
दूर्वायवाङ्कुरप्लक्षत्वगभिन्नपुटोत्तरान्।
ज्ञातिवृद्धैः प्रयुक्तान्स भेजे नीराजनाविधीन्॥१७.१२॥
पुरोहितपुरोगास्तं जिष्णुं जैत्रैरथर्वभिः।
उपचक्रमिरे पूर्वं अभिषेक्तुं द्विजातयः॥१७.१३॥
तस्यौघमहती मूर्ध्नि निपतन्ती व्यरोचत।
सशब्दं अभिषेकश्रीर्गङ्गेव त्रिपुरद्विषः॥१७.१४॥
स्तूयमानः क्षणे तस्मिन्नलक्ष्यत स बन्दिभिः।
प्रवृद्ध इव प्रजन्यः चातकैरभिनन्दितः॥१७.१५॥
तस्य सन्मन्त्रपूताभिः स्नानं अद्भिः प्रतीच्छतः।
ववृधे वैद्युतस्याग्नेर्वृष्टिसेकादिव द्युतिः॥१७.१६॥
स तावदभिषेकान्ते स्नातकेभ्यो ददौ वसु।
यावत्तेषां समाप्येरन्यज्ञाः पर्याप्तदक्षिणाः॥१७.१७॥
ते प्रीतमनसस्तस्मै यां आशिषं उदीरयन्।
सा तस्य कर्मनिर्वृत्तैर्दूरं पश्चात्कृता फलैः॥१७.१८॥
बन्धच्छेदं स बद्धानां वधार्हाणां अवध्यतां।
धुर्याणां च धुरो मोक्षं अदोहं चादिषद्गवां॥१७.१९॥
क्रीडापतत्रिणोऽप्यस्य पञ्जरस्थाः शुकादयः।
लब्धमोक्षास्तदादेशाद्यथेष्टगतयोऽभवन्॥१७.२०॥
ततः कक्षान्तरन्यस्तं गजदन्तासनं शुचि।
सोत्तरच्छदं अध्यास्त नेपथ्यग्रहणाय सः॥१७.२१॥
तं धूपाश्यानकेशान्तं तोयनिर्णिक्तपाणयः।
आकल्पसाधनैस्तैस्तैरुपसेदुः प्रसाधकाः॥१७.२२॥
तेऽ स्य मुक्तागुणोन्नद्धं मौलिं अन्तर्गतस्रजं।
प्रत्यूपुः पद्मरागेण प्रभामण्डलशोभिना॥१७.२३॥
चन्दनेनाङ्गरागं च मृगनाभिसुगन्धिना।
समापय्य ततश्चक्रुः पत्त्रं विन्यस्तरोचनं॥१७.२४॥
आमुक्ताभरणः स्रग्वी हंसचिह्नदुकूलवान्।
आसीदतिशयप्रेक्ष्यः स राज्यश्रीवधूवरः॥१७.२५॥
नेपथ्यदर्शिनश्छाया तस्यादर्शे हिरण्मये।
विरराजोदिते सूर्ये मेरौ कल्पतरोरिव॥१७.२६॥
स राजककुदव्यग्रपाणिभिः पार्श्ववरिभिः।
ययावुदीरितालोकः सुधर्मानवमां सभां॥१७.२७॥
वितानसहितं तत्र भेजे पैतृकं आसनं।
चूडामणिभिरुद्घृष्टपादपीठं महीक्षितां॥१७.२८॥
शुशुभे तेन चाक्रान्तं मङ्गलायतनं महथ्।
श्रीवत्सलक्षणं वक्षः कौस्तुभेनेव कैशवं॥१७.२९॥
बभौ भूयः कुमारत्वादाधिराज्यं अवाप्य सः।
रेखा भावादुपारूढः सामग्र्यं इव चन्द्रमाः॥१७.३०॥
प्रसन्नमुखरागं तं स्मितपूर्वाभिभाषिणं।
मूर्तिमन्तं अमन्यन्त विश्वासं अनुजीविनः॥१७.३१॥
स पुरं पुरुहूतश्रीः कल्पद्रुमनिभध्वजां।
क्रममाणश्चकार द्यां नागेनैरावतौजसा॥१७.३२॥
तस्यैकस्योच्छ्रितं छत्त्रं मूर्ध्नि तेनामलत्विषा।
पूर्वराजवियोगौष्म्यं कृत्स्नस्य जगतो हृतं॥१७.३३॥
धूमादग्नेः शिखाः पश्चादुदयादंशवो रवेः।
सोऽतीत्य तेजसां वृत्तिं समं एवोत्थितो गुणैः॥१७.३४॥
तं प्रीतिविशदैर्नेत्रैरन्वयुः पौरयोषितः।
शरत्प्रसन्नैर्ज्योतिर्भिर्विभावर्य इव ध्रुवं॥१७.३५॥
अयोध्यादेवताश्चैनं प्रशस्तायतनार्चिताः।
अनुदध्युरनुध्येयं सांनिध्यैः प्रतिमागतैः॥१७.३६॥
यावन्नाश्यायते वेदिरभिषेकजलाप्लुता।
तावदेवास्य वेलान्तं प्रतापः प्राप दुःसहः॥१७.३७॥
वसिष्ठस्य गुरोर्मन्त्राः सायकास्तस्य धन्विनः।
किं तत्साध्यं यदुभये साधयेयुर्न संगताः॥१७.३८॥
स धर्मस्थसखः शश्वदर्थिप्रत्यर्थिनां स्वयं।
ददर्श संशयच्छेद्यान्व्यवहारानतन्द्रितः॥१७.३९॥
ततः परं अभिव्यक्तास्ॐअनस्यनिवेदितैः।
युयोज पाकाभिमुखैर्भृत्यान्विज्ञापनाफलैः॥१७.४०॥
प्रजास्तद्गुरुणा नद्यो नभसेव विवर्धिताः।
तस्मिंस्तु भूयसीं वृद्धिं नभस्ये ता इवाययुः॥१७.४१॥
यदुवाच न तन्मिथ्या यद्ददौ न जहार तथ्।
सोऽभूद्भग्नव्रतः शत्रूनुद्धृत्य प्रतिरोपयन्॥१७.४२॥
वयोरूपविभूतीनां एकैकं मदकारणं।
तानि तस्मिन्समस्तानि न तस्योत्सिषिचे मनः॥१७.४३॥
इत्थं जनितरागासु प्रकृतिष्वनुवासरं।
अक्षोभ्यः स नवोऽप्यासीद्दृढमूल इव द्रुमः॥१७.४४॥
अनित्याः शत्रवो बाह्या विप्रकृष्टाश्च ते यतः।
अतः सोऽभ्यन्तरान्नित्यान्षट्पूर्वं अजयद्रिपून्॥१७.४५॥
प्रसादाभिमुखे तस्मिंश्चपलापि स्वभावतः।
निकषे हेमरेखेव श्रीरासीदनपायिनी॥१७.४६॥
कातर्यं केवला नीतिः शौर्यं श्वापदचेष्टितं।
अतः सिद्धिं समेताभ्यां उभाभ्यां अन्वियेष सः॥१७.४७॥
न तस्य मण्डले राज्ञो न्यस्तप्रणिधिदीधितेः।
अदृष्टं अभवत्किंचिद्व्यभ्रस्येव विवस्वतः॥१७.४८॥
रात्रिंदिवविभागेषु यदादिष्टं महीक्षितां।
तत्सिषेवे नियोगेन स विकल्पपराङ्मुखः॥१७.४९॥
मन्त्रः प्रतिदिनं तस्य बभूव सह मन्त्रिभिः।
स जातु सेव्यमानोऽपि गुप्तद्वारो न सूच्यते॥१७.५०॥
परेषु स्वेषु च क्षिप्तैरविज्ञातपरस्परैः।
सोऽपसर्पैर्जजागार यथाकालं स्वपन्नपि॥१७.५१॥
दुर्गाणि दुर्ग्र्हाण्यासंस्तस्य रोद्धुरपि द्विषां।
न हि सिंहो गजास्कन्दी भयाद्गिरिगुहाशयः॥१७.५२॥
बह्व्यमुख्याः समारम्भाः प्रत्यवेक्ष्या निरत्ययाः।
गर्भशालिसधर्माणस्तस्य गूढं विपेचिरे॥१७.५३॥
अपथेन प्रववृते न जातूपचितोऽपि सः।
वृद्धौ नदीमुखेनैव प्रस्थानं लवणाम्भसः॥१७.५४॥
कामं प्रत्कृतिवैराग्यं सद्यः शमयितुं क्षमः।
यस्य कार्यः प्रतीकारः स तन्नैवोदपादयथ्॥१७.५५॥
शकेष्वेवाभवद्यात्रा तस्य शक्तिमतः सतः।
समीरणसहायोऽपि नाम्भःप्रार्थी दवानलः॥१७.५६॥
न धर्मं अर्थकामाभ्यां बबाधे न च तेन तौ।
नार्थं कामेन कामं वा सोऽर्थेन सदृशस्त्रिषु॥१७.५७॥
हीनान्यनुपकर्तःणि प्रवृद्धानि विकुर्वते।
तेन मध्यमशक्तीनि मित्राणि श्तापितान्यतः॥१७.५८॥
परात्मनोः परिच्छिद्य शक्त्यादीनां बलाबलं।
ययावेभिर्बलिष्ठश्चेत्परस्मादास्त सोऽन्यथा॥१७.५९॥
कोशेनाश्रयणीयत्वं इति तस्यार्थसंग्रहः।
अम्बुगर्भो हि जीमूतश्चातकैरभिनन्द्यते॥१७.६०॥
परकर्मापहः सोऽभूदुद्यतः स्वेषु कर्मसु।
आवृणोदात्मनो रन्ध्रं रन्ध्रेषु प्रहरन्रिपून्॥१७.६१॥
पित्रा संवर्धितो नित्यं कृतास्त्रः सांपरायिकः।
तस्य दण्डवतो दण्डः स्वदेहान्न व्यशिष्यत॥१७.६२॥
सर्पस्येव शिरोरत्नं नास्य शक्तित्रयं परः।
स चकर्ष परस्मात्तदयस्कान्त इवायसं॥१७.६३॥
वापीष्विव स्रवन्तीषु वनेषूपवनेष्विव।
सार्थाः स्वैरं स्वकीयेषु चेरुर्वेश्मस्विवाद्रिषु॥१७.६४॥
तपो रक्षन्स विघ्नेभ्यस्तस्करेभ्यश्च संपदः।
यथास्वं आश्रमैश्चक्रे वर्णैरपि षड्संशभाक्॥१७.६५॥
खनिभिः सुषुवे रत्नं क्षेत्रैः सस्यं वनैर्गजान्।
दिदेश वेतनं तस्मै रक्षासदृशं एव भूः॥१७.६६॥
स गुणानां बलानां च षण्णां षण्मुखविक्रमः।
बभूव विनियोगज्ञः साधनीयेषु वस्तुषु॥१७.६७॥
इति क्रमात्प्रयुञ्जानो राज नीतिं चतुर्विधां।
आ तीर्थादप्रतीघातं स तस्याः फलं आनशे॥१७.६८॥
कूटयुद्धविधिज्ञेऽपि तस्मिन्सन्मार्गयोधिनि।
भेजेऽभिसारिकावृत्तिं जयश्रीर्वीरगामिनी॥१७.६९॥
प्रायः प्रतापभग्नत्वादरीणां तस्य दुर्लभः।
रणो गन्धविपस्येव गन्धभिन्नान्यदन्तिनः॥१७.७०॥
प्रवृद्धौ हीयते चन्द्रः समुद्रोऽपि तथाविधः।
स तु तसमवृद्धिश्च न चाभूत्ताविव क्षयी॥१७.७१॥
सन्तस्तस्याभिगमनादत्यर्थं महतः कृषाः।
उदधेरिव जीमूताः प्रापुर्दातृत्वं अर्थिनः॥१७.७२॥
स्तूयमानः स जिह्राय स्तुत्यं एव समाचरन्।
तथापि ववृधे तस्य तत्कारिद्वेषिनो यशः॥१७.७३॥
दुरितं दर्शनेन घ्नंस्तत्त्वार्थेन नुदंस्तमः।
प्रजाः स्वतन्त्रयां चक्रे शश्वत्सूर्य इवोदितः॥१७.७४॥
इन्दोरगतयः पद्मे सूर्यस्य कुमुदेऽंशवः।
गुणास्तस्य विपक्षेऽपि गुणिनो लेभिरेऽन्तरं॥१७.७५॥
पराभिसंधानपरं यद्यप्यस्य विचेष्टितं।
जिगीषोरश्वमेधाय धर्म्यं एव बभूव तथ्॥१७.७६॥
एवं उद्यन्प्रभावेण शास्त्ग्रनिर्दिष्टवर्त्मना।
वृषेव देवो देवानां राज्ञां राजा बभूव सः॥१७.७७॥
पञ्चमं लोकपालानां तं ऊचुः साम्ययोगतः।
भूतानां महतां षष्ठं अष्टमं कुलभूभृतां॥१७.७८॥
दूरापवर्जितच्छत्त्रैस्तस्याज्ञां शासनार्पितां।
दधुः शिरोभिर्भूपाला देवः पौरंदरीं इव॥१७.७९॥
ऋत्विजः स तथानर्च दक्षिणाभिर्महाक्रतौ।
यथा साधारणीभूतं नामास्य धनदस्य च॥१७.८०॥
इन्द्राद्वृष्टिर्नियमितगदोद्रेकवृत्तिर्यमोऽभूद्यादोनाथः शिवजलपथः कर्मणे नौचराणां।
पूर्वापेक्षी तदनु विदधे कोशवृद्धिं कुबेरस्तस्मिन्दण्डोपनतचरितं भेजिरे लोकपालाः॥१७.८१॥