भारत की संस्कृति के लिए... भाषा की उन्नति के लिए... साहित्य के प्रसार के लिए

"तदस्माकं प्रियं भारतम् / कौशल तिवारी" के अवतरणों में अंतर

Kavita Kosh से
यहाँ जाएँ: भ्रमण, खोज
('{{KKGlobal}} {{KKRachna |रचनाकार= |अनुवादक= |संग्रह= }} {{KKCatSanskritRachna}} <poem> यत...' के साथ नया पृष्ठ बनाया)
 
(कोई अंतर नहीं)

16:33, 31 जुलाई 2015 के समय का अवतरण

यत्र राज्ञा रक्षितः खगः
खं सेवते यथेच्छं
यत्र च शकुन्तै-
र्लालिता पालिता
भरतस्य जननी ननु,
तदस्माकं प्रियं भारतम्॥
यत्र पिता दृष्ट्वा
स्वतनयशवमपि
करोति कर्तव्यपालनं
तटस्थो भूत्वा
यत्र च पितुराज्ञापालनाय
संचरति पुत्रः काननेषु,
तदस्माकं प्रियं भारतम्॥
यत्र स्वजीवनं तमसि पातयित्वा
जाया कान्ताय नेत्रायते
यत्र च दाराणां कृते भर्ता
रुदन् परिभ्रमतीतस्ततः,
तदस्माकं प्रियं भारतम्॥
यत्र ज्येष्ठस्त्यजति सिंहासनम्
अनुजस्य हेतोः सहजेन
यत्र चैश्वर्यं त्यक्त्वाऽनुजो
भवति वनेषु ज्येष्ठानुगामी,
तदस्माकं प्रियं भारतम्॥
यत्राण्डजः सवकार्यैः
प्राप्नोति पूज्यपदं
यत्र च पशोः मोक्षार्थं भगवान्
स्वयमवतरति धरायाम्,
तदस्माकं प्रियं भारतम्॥
यत्र भक्ता पिबति विषं
जानन्त्यपि भक्तिमदे ननु
यत्र च हालाहलमपि पिबति
भक्तवत्सलो जनकल्याणाय,
तदस्माकं प्रियं भारतम्॥
यत्र प्रत्येकं भारतीयो वसति
भारतस्य कणे-कणे,
यत्र च भारते वसति
प्रत्येकं भारतीये,
तदस्माकं प्रियं भारतम्॥