"त्रिचक्रिकाचालककाव्यम् / बलराम शुक्ल" के अवतरणों में अंतर
Lalit Kumar (चर्चा | योगदान) ('{{KKGlobal}} {{KKRachna |रचनाकार=बलराम शुक्ल |अनुवादक= |संग्रह= }} {{KKCat...' के साथ नया पृष्ठ बनाया) |
(कोई अंतर नहीं)
|
22:51, 16 अगस्त 2016 के समय का अवतरण
त्रिचक्रिकाचालकसुन्दरस्मितं
दिनेऽपि सेन्दूकृतसच्चतुष्पथम्।
अमासमे हर्म्यतलेऽघदूषिते
शताट्टहासान् धनिनामदोऽर्हति॥
ब्रवीमि ते घर्मजलैश्च दुर्दिनीदृ
कृतं कृतिन्! धन्यतरं सुजीवितम्।
अघेश्वराणां दुरुदर्कदुर्भगाद्
धनेन धन्वीकृतजीवनादिदम्॥
मुखं वलीपङ्क्तिसुशोभिभालकं
परिस्रवद्घर्मजलाविलाकृति।
तमालगन्धि प्रकटं मलीमसं
मयेष्यते ते परिचुम्ब्यतामिति॥
चतुष्पथे प्रस्तरितैरथाक्षिभिः
प्रतीक्षमाणैः परितः पदातये।
विसृज्यमाना वदनेषु शून्यता
हृदस्मदीयं ज्वलयत्यहर्निशम्॥
स्फुटच्छिरं बद्धशरीरमारुतं
यदोच्चभूमिं प्रसभं विकर्षसि।
स्वकीययानं व्ययिताखिलोर्ज्जया
मनो मदीयं सकलं विलीयते॥
त्वयोह्यमानो विपथे विसंष्ठुले
स्वनायकानामिव दन्तुरान्तरे।
विचारयेऽहं तव दुःखदुःखितस्
त्वमास्स्व यानेऽथ वहाम्यतः परम्॥
सलज्जचित्तोऽस्म्यपराधबोधतो
मनुष्यताऽत्रास्ति कथं प्रधर्षिता।
कथं च कश्चित् स्थितिमान् सदासने
तथापरः कर्षति यन्त्रवद्भुवि॥