भारत की संस्कृति के लिए... भाषा की उन्नति के लिए... साहित्य के प्रसार के लिए

पैङ्गलोपनिषत् / चतुर्थोऽध्यायः / संस्कृतम्‌

Kavita Kosh से
Sharda suman (चर्चा | योगदान) द्वारा परिवर्तित 13:32, 20 जून 2014 का अवतरण ('{{KKGlobal}} {{KKRachna |रचनाकार= |अनुवादक= |संग्रह=पैङ्गलोपनिषत् / ...' के साथ नया पन्ना बनाया)

(अंतर) ← पुराना अवतरण | वर्तमान अवतरण (अंतर) | नया अवतरण → (अंतर)
यहाँ जाएँ: भ्रमण, खोज

अथ हैनं पैङ्गलः प्रपच्छ याज्ञवल्क्यं ज्ञानिनः किं कर्म का च स्थितिरिति।
स होवाच याज्ञवल्क्यः।
अमानित्वादिसम्पन्नो मुमुक्षुरेकविंशतिकुलं तारयति।
ब्रह्मविन्मात्रेण कुलमेकोत्तरशतं तारयति।

आत्मानं रथिनं विद्धि शरीरं रथमेव च।
बुद्धिं तु सारथिं विद्धि मनः प्रग्रहमेव च॥१॥

इन्द्रियाणि हयानाहुर्विषयांस्तेषु गोचरान्।
जङ्गमानि विमानानि हृदयानि मनीषिणः॥२॥

आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्महर्षयः।
ततो नारायणः साक्षाद्धृदये सुप्रतिष्ठितः॥३॥

प्रारब्धकर्मपर्यन्तमहिनिर्मोकवद्व्यवहरति।
 चन्द्रवच्चरते देही स मुक्तश्चानिकेतनः॥४॥

तीर्थे श्वपचगृहे वा तनुं विहाय याति कैवल्यम्।
प्राणानवकीर्य याति कैवल्यम्॥

तं पश्चाद्दिग्बलिं कुर्यादथवा खननं चरेत्।
पुंसः प्रव्रजनं प्रोक्तं नेतराय कदाचन॥५॥

नाशौचं नाग्निकार्यं च न पिण्डं नोदकक्रिया।
 न कुर्यात्पार्वणादीनि ब्रह्मभूताय भिक्षवे॥६॥

दग्धस्य दहनं नास्ति पक्वस्य पचनं यथा।
ज्ञानाग्निदग्धदेहस्य न च श्राद्धं न च क्रिया॥७॥

यावच्चोपाधिपर्यन्तं तावच्छुश्रूषयेद्गुरुम्।
गुरुवद्गुरुभार्यायां तत्पुत्रेषु च वर्तनम्॥८॥

शुद्धमानसः शुद्धचिद्रूपः सहिष्णुः सोऽहमस्मि सहिष्णुः सोऽहमस्मीति प्राप्ते ज्ञानेन विज्ञाने ज्ञेये परमात्मनि हृदि संस्थिते देहे लब्धशान्तिपदं गते तदा प्रभामनोबुद्धिशून्यं भवति।
अमृतेन तृप्तस्य पयसा किं प्रयोजनम्।
एवं स्वात्मानं ज्ञात्वा वेदैः प्रयोजनं किं भवति।
ज्ञानामृततृप्तयोगिनो न किञ्चित्कर्तव्यमस्ति तदस्ति चेन्न स तत्त्वविद्भवति।
दूरस्थोऽपि न दूरस्थः पिण्डवर्जितः पिण्डस्थोऽपि प्रत्यगात्मा सर्वव्यापी भवति।
हृदयं निर्मलं कृत्वा चिन्तयित्वाप्यनामयम्। अहमेव परं सर्वमिति पश्येत्परं सुखम्॥९॥

यथा जले जलं क्षिप्तं क्षीरे क्षीरं घृते घृतम्।
अविशेषो भवेत्त्द्वज्जिवात्मपरमात्मनोः॥१०॥

देहे ज्ञानेन दीपिते बुद्धिरखण्डाकाररूपा यदा भवति तदा विद्वान्ब्रह्मज्ञानाग्निना कर्मबन्धं निर्दहेत्।

ततः पवित्रं परमेश्वराख्यमद्वैतरूपं विमलाम्बराभम्।
यथोदके तोयमनुप्रविष्टं तथात्मरूपो निरुपाधिसंस्थितः॥११॥

आकाशवत्सूक्ष्मशरीर आत्मा न दृश्यते वायुवदन्तरात्मा।

स बाह्यमभ्यन्तरनिश्चलात्मा ज्ञानोल्कयापश्यति चान्तरात्मा॥१२॥
यत्रयत्र मृतो ज्ञानी येन वा केन मृत्युना।
यथा सर्वगतं व्योम तत्रतत्र लयं गतः॥१३॥

घटाकाशमिवात्मानं विलयं वेत्ति तत्त्वतः।
स गच्छति निरालम्बं ज्ञानालोकं समन्ततः॥१४॥

तपेद्वर्षसहस्राणि एकपादस्थितो नरः।
एतस्य ध्यानयोगस्य कलां नार्हति षोडशीम्॥१५॥

इदं ज्ञानमिदं ज्ञेयं तत्सर्वं ज्ञातुमिच्छति।
अपि वर्षसहस्रायुः शास्त्रान्तं नाधिगच्छति॥१६॥

विज्ञेयोऽक्षरतन्मात्रो जीवितं वापि चञ्चलम्।
विहाय शास्त्रजालानि यत्सत्यं तदुपासताम्॥१७॥

अनन्तकर्मशौचं च जपो यज्ञस्तथैव च।
तीर्थयात्राभिगमनं यावत्तत्त्वं न विन्दति॥१८॥

अहं ब्रह्मेति नियतं मोक्षहेतुर्महात्मनाम्।
द्वे पदे बन्धमोक्षाय न ममेति ममेति च॥१९॥

ममेति बध्यते जन्तुर्निर्ममेति विमुच्यते।
मनसो ह्युन्मनी भावे द्वैतं नैवोपलभ्यते॥२०॥

यदा यात्युन्मनीभावस्तदा तत्परमं पदम्।
यत्रयत्र मनो याति तत्रतत्र परं पदम्॥२१॥

तत्रतत्र परं ब्रह्म सर्वत्र समवस्थितम्।
हन्यान्मुष्टिभिराकाशं क्षुधार्तः खण्डयेत्तुषम्॥२२॥

नाहं ब्रह्मेति जानाति तस्य मुक्तिर्न जायते।
य एतदुपनिषदं नित्यमधीते सोऽग्निपूतो भवति।
स वायुपूतो भवति।
स आदित्यपूतो भवति।
स ब्रह्मपूतो भवति।
स विष्णुपूतो भवति।
स रुद्रपूतो भवति।
स सर्वेषु तीर्थेषु स्नातो भवति।
स सर्वेषु वेदेष्वधीतो भवति।
स सर्ववेदव्रतचर्यासु चरितो भवति।
तेनेतिहासपुराणानां रुद्राणां शतसहस्राणि जप्तानि फलानि भवन्ति।
प्रणवानामयुतं जप्तं भवति।
दश पूर्वान्दशोत्तरान्पुनाति।
स पङ्क्तिपावनो भवति।
स महान्भवति।
ब्रह्महत्यासुरापानस्वर्णस्तेयगुरुतल्पगमनतत्संयोगिपातकेभ्य पूतो भवति।
तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः।
दिवीव चक्षुराततम्॥

तद्विप्रासो विपन्यवो जागृवांसः समिन्धते।
विष्णोर्यत्परमं पदम्॥

ॐ सत्यमित्युपनिषत्॥ॐ पूर्णामद इति शान्तिः॥

इति पैङ्गलोपनिष्त्समाप्ता॥