भारत की संस्कृति के लिए... भाषा की उन्नति के लिए... साहित्य के प्रसार के लिए

आकाशः / राधावल्लभः त्रिपाठी

Kavita Kosh से
Lalit Kumar (चर्चा | योगदान) द्वारा परिवर्तित 23:05, 16 अगस्त 2016 का अवतरण ('{{KKGlobal}} {{KKRachna |रचनाकार=राधावल्लभ त्रिपाठी |अनुवादक= |संग...' के साथ नया पृष्ठ बनाया)

(अंतर) ← पुराना अवतरण | वर्तमान अवतरण (अंतर) | नया अवतरण → (अंतर)
यहाँ जाएँ: भ्रमण, खोज

किं कुर्यादयमाकाशः?
वायुरिव स वातुं न शक्नोति,
अग्निरिव दग्धुं न प्रभवति
न जलमिवात्मानं धारासु विभक्तुम्
न क्षमा इव क्षमते भारं निर्वोढुम्
वायौ वरीवर्ति स्पर्शः
अग्नौ लसति रूपम्
जले आस्वाद्यते रसः
पृथिव्यां रमते गन्धः
परं किमस्ति आकाशे?
किमपि नास्तीत्यत एव तदीयमस्तित्वम्।
सोऽपि ईप्सति स्पर्शाय
सोऽपि स्पृहयते रूपाय
सोऽपि तातप्यते उष्णतायै
सोऽपि कामयते रसाय
गर्धते गन्धाय
स घटे घटे विशति
मठं मठं प्रविशति
तथापि नास्ति तस्य प्रत्यभिज्ञा
पण्डिताः प्रवदन्ति
घटाकाशो वा स्यात्
मठाकाशो वा स्यात्
आकाशः केवलमाकाश एव।
अभ्रङ्कषानां सौधसंहतीनां कान्तारे
स सम्भ्रमी बम्भ्रमीति
पिनष्टि एनं
संहतिः सौधानाम्
भीषयति एनं
धूमः उद्गारनलिकानाम्
आत्मनः आकाशं मार्गयते आकाशः
अपि नाम स्यात्
आकाशस्य कृते कुतोऽपि अवकाशः?
किं कुर्यादयमाकाशो वराकः?