भारत की संस्कृति के लिए... भाषा की उन्नति के लिए... साहित्य के प्रसार के लिए

कोकिलः / राधावल्लभः त्रिपाठी

Kavita Kosh से
Lalit Kumar (चर्चा | योगदान) द्वारा परिवर्तित 23:22, 16 अगस्त 2016 का अवतरण ('{{KKGlobal}} {{KKRachna |रचनाकार=राधावल्लभ त्रिपाठी |अनुवादक= |संग...' के साथ नया पृष्ठ बनाया)

(अंतर) ← पुराना अवतरण | वर्तमान अवतरण (अंतर) | नया अवतरण → (अंतर)
यहाँ जाएँ: भ्रमण, खोज

एषु दिनेषु
कोकिलो व्याकुलो वरीवर्ति,
कदा कुहूकारः कर्तव्य इति स न जानाति
पूर्वैः सूरिभिः कृताः सर्वा व्यवस्था अनेन हतकेन
सम्प्रति विपर्यासं नीताः
यदा वसन्तस्य किमपि नामावशेषो न स्यात्
तदा अयं कूजति
तीक्ष्णं कूजति
कर्णंकुहरं विदारयेदिति कूजति
अस्य पञ्चमः स्खलितः
धैवते निषादे च निपत्य
विस्वरायित इत्यपि
नायमवधत्ते
न केवलमेतावदेव,
अतिवसन्ते कालेपि
दुष्टोऽयं कूजति
अपि नाम गतस्य वसन्तस्य
गायति शोकगीतिम्?
स्यात् एतस्य स्वरे कदाचिन्माधुर्यम्
भवेयुः पुराऽस्य काकलीगाने विशेषाः
इदानीं तु एतस्य ताने सन्ति उत्ताना अभियोगाः
प्रतिभान्ति उत्प्रासाः
कश्चन पृच्छेदेनम्
किमर्थं कूजसि एवं स्थिते
यदा स्थितयस्तव वशातिगाः?
इयमपरैव विडम्बना -
यत् समायाते वसन्ते
यदा अनेन कूजितव्यं
तदा अयम् अधोमुखः
स्रस्तगात्रः
तस्य आम्रस्य शाखायां तूष्णीम् उपविष्टः।