जाबालदर्शनोपनिषत् / तृतीयः खण्डः / संस्कृतम्‌

Sharda suman (चर्चा | योगदान) द्वारा परिवर्तित 15:52, 20 जून 2014 का अवतरण ('{{KKGlobal}} {{KKRachna |रचनाकार= |अनुवादक= |संग्रह=जाबालदर्शनोपनि...' के साथ नया पन्ना बनाया)

(अंतर) ← पुराना अवतरण | वर्तमान अवतरण (अंतर) | नया अवतरण → (अंतर)

स्वस्तिकं गोमुखं पद्मं वीरसिंहासने तथा।
भद्रं मुक्तासनं चैव मयूरासनमेव च॥१॥

सुखासनसमाख्यं च नवमं मुनिपुङ्गव।
जानूर्वोरन्तरे कृत्वा सम्यक् पादतले उभे॥२॥

समग्रीवशिरःकायः स्वस्तिकं नित्यमभ्यसेत्।
सव्ये दक्षिणगुल्फं तु पृष्ठपार्श्वे नियोजयेत्॥३॥

दक्षिणेऽपि तथा सव्यं गोमुखं तत्प्रचक्षते।
अङ्गुष्ठावधि गृह्णीयाद्धस्ताभ्यां व्युत्क्रमेण तु॥४॥

ऊर्वोरुपरि विप्रेन्द्र कृत्वा पादतलद्वयम्।
पद्मासनं भवेत्प्राज्ञ सर्वरोगभयापहम्॥५॥

दक्षिणेतरपादं तु दक्षिणोरुणि विन्यसेत्।
ऋजुकायः समासीनो वीरासनमुदाहृतम्॥६॥

गुल्फौ तु वृषणस्याधः सीवन्याः पार्श्वयोः क्षिपेत्।
पार्श्वपादौ च पाणिभ्यां दृढं बद्ध्वा सुनिश्चलम्।
भद्रासनं भवेदेतद्विषरोगविनाशनम्॥७॥

निपीड्य सीवनीं सूक्ष्मं दक्षिणेतरगुल्फतः।
वामं याम्येन गुल्फेन मुक्तासनमिदं भवेत्॥८॥

मेढ्रादुपरि निक्षिप्य सव्यं गुल्फं ततोपरि।
गुल्फान्तरं च संक्षिप्य मुक्तासनमिदं मुने॥९॥

कूर्पराग्रे मुनिश्रेष्ठ निक्षिपेन्नाभिपार्श्वयोः।
भूम्यां पाणितलद्वन्द्वं निक्षिप्यैकाग्रमानसः॥१०॥

समुन्नतशिरःपादो दण्डवद्व्योम्निसंस्थितः।
मयूरासनमेतत्स्यात्सर्वपापप्रणाशनम्॥११॥

येन केन प्रकारेण सुखं धैर्यं च जायते।
तत्सुखासनमित्युक्तमशक्तस्तत्समाश्रयेत्॥१२॥

आसनं विजितं येन जितं तेन जगत्त्रयम्।
अनेन विधिना युक्तः प्राणायामं सदा कुरु॥१३॥

इति॥

इति तृतीयः खण्डः॥३॥

इस पृष्ठ को बेहतर बनाने में मदद करें!

Keep track of this page and all changes to it.