उपदेशसाहस्री / उपदेश १९ / आदि शंकराचार्य
प्रयुज्य तृष्णाज्वरनाशकारणं चिकित्सितं ज्ञानविरागभेषजम्।
न याति कामज्वरसन्निपातजां शरीरमालाशतयोगदुःखिताम्॥
अहं ममेति त्वमनर्थमीहसे परार्थमिच्छन्ति तवान्य ईहितम्।
न तेऽर्थबोधो न हि मेऽस्ति चार्थिता ततश्च युक्तः शम एव ते मनः॥
यतो न चान्यः परमात् सनातनात् सदैव तृप्तोऽहमतो न मेऽर्थिता।
सदैव मुक्तश्च न कामये हितं यतस्व चेतः प्रशमाय तेऽधिकम्॥
षडूर्मिमालाभ्यतिवृत्त एव यः स एव चात्मा जगतश्च नः श्रुतेः।
प्रमाणतश्चापि मया प्रवेद्यते मुधैव तस्माच् च मनस्तवेहितम्॥
त्वयि प्रशान्ते न हि सास्ति भेदधीर्यतो जगन् मोहमुपैति मायया।
ग्रहो हि मायाप्रभवस्य कारणं ग्रहाद् विमोके न हि सास्ति कस्यचित्॥
न मेऽस्ति मोहस्तव चैष्टितेन हि प्रबुद्धतत्त्वस्त्वसितो ह्यविक्रियः।
न पूर्वतत्त्वोत्तरभेदता हि नो वृथैव तस्माच् च मनस्तवेहितम्॥
यतश्च नित्योऽहमतो न चान्यथा विकारयोगे हि भवेदनित्यता।
सदा प्रभातोऽहमतो हि चाद्वयो विकल्पितं चाप्यसदित्यवस्थितम्॥
अभावरूपं त्वमसीह हे मनो निरीक्ष्यमाणे न हि युक्तितोऽस्तिता।
सतो ह्यनाशादसतोऽप्यजन्मतो द्वयं च तेऽतस्तव नास्तितेष्यते॥
द्रष्टा च दृश्यं च तथा च दर्शनं भ्रमः स सर्वस्तव कल्पितो हि सः।
दृशेश्च भिन्नं न हि दृश्यमीक्ष्यते स्वपन् विबोधे च तथा न भिद्यते॥
विकल्पना चापि तथाद्वया भवेदवस्तुयोगात् तदलातचक्रवत्।
न शक्तिभेदोऽस्ति यतो न चात्मनां ततोऽद्वयत्वं श्रुतितोऽवसीयते॥
मिथश्च भिन्ना यदि ते हि चेतनाः क्षयस्तु तेषां परिमाणयोगतः।
ध्रुवो भवेद् भेदवतां हि दृष्टतो जगत्क्षयश्चापि समस्तमोक्षतः॥
न मेऽस्ति कश्चिन् न च सोऽस्मि कस्यचिद् यतोऽद्वयोऽहं न हि चास्ति कल्पितम्।
अकल्पितश्चास्मि पुरा प्रसिद्धितो विकल्पनाया द्वयमेव कल्पितम्॥
विकल्पना चाप्यभवे न विद्यते सदन्यदित्येवमतो न नास्तिता।
यतः प्रवृत्ता तव चापि कल्पना पुरा प्रसिद्धेर्न च तद् विकल्पितम्॥
असद् द्वयं तेऽपि हि यद् यदीक्षते न दृष्टमित्येव न चैव नास्तिता।
यतः प्रवृत्ता सदसद्विकल्पना विचारवच् चापि तथाद्वयं च सत्॥
सदभ्युपेतं भवतोपकल्पितं विचारहेतोर्यदि तस्य नास्तिता।
विचारहानाच् च तहैव संस्थितं न चेत् तदिष्टं नितरां सदिष्यते॥
असत्समं चैव सदित्यपीति चेदनर्थवत्त्वात् खरशृञ्गतुल्यतः।
अनर्थवत्त्वं त्वसति ह्यकारणं न चैव तस्मान् न विपर्ययेऽन्यथा॥
असिद्धतश्चापि विचारकारणाद् द्वयं च तस्मात् प्रसृतं हि मायया।
श्रुतेः स्मृतेश्चापि तथा हि युक्तितः प्रसिद्ध्यतीत्थं न तु युज्यतेऽन्यथा॥
विकल्पनाच् चापि विधर्मकं श्रुतेः पुरा प्रसिद्धेश्च विकल्पितंऽद्वयम्।
न चेति नेतीति तथा विकल्पितं निषिध्यतेऽत्राप्यवशेषसिद्धये॥
अकल्पितेऽप्येवमजाद्वयाक्षरे विकल्पयन्तः सदसच् च जन्मभिः।
स्वचित्तमायाप्रभवं च ते भवं जरां च मृत्युं च नियान्ति संततम्॥
भवाभवत्वं तु न चेदवस्थितिर्न तस्य चान्यस्त्विति जन्म नान्यथा।
सतो ह्यसत्त्वादसतश्च सत्त्वतो न च क्रिया कारकमित्यतोऽप्यजम्॥
अकुर्वदिष्टं यदि वास्य कारकं न किंचिदन्यन् ननु नास्त्यकारकम्।
सतो विशेषादसतश्च सच्च्युतौ तुलान्तयोर्यद्वदनिश्चयान् न हि॥
न चेत् स इष्टः सदसद्विपर्ययः कथं भवः स्यात् सदसद्व्यवस्थितौ।
विभक्तमेतद् द्वयमप्यवस्थितं न जन्म तस्माच् च मनो हि कस्यचित्॥
अथाभ्युपेत्यापि भवं तवेच्छतो ब्रवीमि नार्थस्तव चेष्टितेन मे।
न हानवृद्धी न यतः स्वतोऽसतो भवोऽन्यतो वा यदि वास्तिता तयोः॥
ध्रुवा ह्यनित्याश्च न चान्ययोगिनो मिथश्च कार्यं न च तेषु युज्यते।
अतो न कस्यापि हि किंचिदिष्यते स्वयं हि तत्त्वं न निरुक्तिगोचरम्॥
समं तु तस्मात् सततं विभातवद् द्वयाद् विमुक्तं सदसद्विकल्पितात्।
निरीक्ष्य युक्त्या श्रुतितश्च बुद्धिमानशेषनिर्वाणमुपैति दीपवत्॥
अवेद्यमेकं यदनन्यवेदिनां कुतार्किकाणां च सुवेद्यमन्यथा।
निरीक्ष्य चेत्थं त्वगुणग्रहोऽगुणं न याति मोहं ग्रहदोषमुक्तितः॥
अतोऽन्यथा न ग्रहनाश इष्यते विमोहबुद्धेर्ग्रह एव कारणम्।
ग्रहोऽप्यहेतुर्ह्यनलस्त्वनिन्धनो यथा प्रशान्तिं परमां तथा व्रजेत्॥
विमथ्य वेदोदधितः समुद्धृतं सुरैर्महाब्धेस्तु यथा महात्मभिः।
तथाऽमृतं ज्ञानमिदं हि यैः पुरा नमो गुरुभ्यः परमिक्षितं च यैः॥