भारत की संस्कृति के लिए... भाषा की उन्नति के लिए... साहित्य के प्रसार के लिए

पण्डितस्य आधुनिकस्य च संवादः / राधावल्लभः त्रिपाठी

Kavita Kosh से
Lalit Kumar (चर्चा | योगदान) द्वारा परिवर्तित 23:22, 16 अगस्त 2016 का अवतरण ('{{KKGlobal}} {{KKRachna |रचनाकार=राधावल्लभ त्रिपाठी |अनुवादक= |संग...' के साथ नया पृष्ठ बनाया)

(अंतर) ← पुराना अवतरण | वर्तमान अवतरण (अंतर) | नया अवतरण → (अंतर)
यहाँ जाएँ: भ्रमण, खोज

पण्डितं प्रति आधुनिकः
पीतं पाणिनिशास्त्रं प्रातिशाख्यमपि तथा निगीर्णं वै।
पण्डितपुङ्गव वद रे प्रेम्णो जानासि किं नु व्याकरणम्।।
सृष्टिरहस्यं ज्ञातं तन्त्रयुक्तयस्तथैव सुचर्चिताः।
वेदान्तं कण्ठस्थीकृतवानसि च समग्रमेव।
ननु जानीषे न्यायं सांख्यं तथा च मतानि सर्वाण्यपि।
अपि तां वा जानीषे सीदति गृहिणी गृहे तव या ।।

पण्डितस्योत्तरम्
मा वह गर्वमखर्वं रे रे आधुनिक पण्डितम्मन्य।
रिक्तस्त्वं ननु निर्जलघट इव तु निनाद्यसे मुखेन।।
उच्छृंखलता खलता खलु ते खल निसर्गतः सुप्रथिता।
स्नेहं मुक्त्वा खलतां तिल इव पीडनवशात् प्रयासि।
मम गृहिणीविषये यद् यद्वा तद्वा त्वया बहु निगदितम् ।
अपि पश्यसि निजदारान् शीलविदारणपरान् नु सदा।
संसारो यः परितो मामिह सुतरां च सन्ततं सरति।
शास्त्रदृशा तं सम्यक् पश्यन् विशदं चराम्यभयः।।
उपनेत्रं यन्नेत्रे धत्से तस्मात् कथं नु शक्नुयाः।
द्रष्टुं सत्यं तत्त्वं मार्जय नयने ननु प्रथमं त्वम्।